हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Amnaya Stotram – आम्नाय स्तोत्रम्
चतुर्दिक्षु प्रसिद्धासु प्रसिद्ध्यर्थं स्वनामतः ।
चतुरोथ मठान् कृत्वा शिष्यान्संस्थापयद्विभुः ॥ १ ॥
चकार सञ्ज्ञामाचार्यश्चतुरां नामभेदतः ।
क्षेत्रं च देवतां चैव शक्तिं तीर्थं पृथक्पृथक् ॥ २ ॥
सम्प्रदायं तथाम्नायभेदं च ब्रह्मचारिणाम् ।
एवं प्रकल्पयामास लोकोपकरणाय वै ॥ ३ ॥
दिग्भागे पश्चिमे क्षेत्रं द्वारका शारदामठः ।
कीटवालस्सम्प्रदाय-स्तीर्थाश्रमपदे उभे ॥ ४ ॥
देवस्सिद्धेश्वरश्शक्तिर्भद्रकालीति विश्रुता ।
स्वरूप ब्रह्मचार्याख्य आचार्यः पद्मपादकः ॥ ५ ॥
विख्यातं गोमतीतीर्थं सामवेदश्च तद्गतम् ।
जीवात्म परमात्मैक्यबोधो यत्र भविष्यति ॥ ६ ॥
विख्यातं तन्महावाक्यं वाक्यं तत्त्वमसीति च ।
द्वितीयः पूर्वदिग्भागे गोवर्धनमठः स्मृतः ॥ ७ ॥
भोगवालस्सम्प्रदाय-स्तत्रारण्यवने पदे ।
तस्मिन् देवो जगन्नाथः पुरुषोत्तम सञ्ज्ञितः ॥ ८ ॥
क्षेत्रं च वृषलादेवी सर्वलोकेषु विश्रुता ।
प्रकाश ब्रह्मचारीति हस्तामलक सञ्ज्ञितः ॥ ९ ॥
आचार्यः कथितस्तत्र नाम्ना लोकेषु विश्रुतः ।
ख्यातं महोदधिस्तीर्थं ऋग्वेदस्समुदाहृतः ॥ १० ॥
महावाक्यं च तत्रोक्तं प्रज्ञानं ब्रह्मचोच्यते ।
उत्तरस्यां श्रीमठस्स्यात् क्षेत्रं बदरिकाश्रमम् ॥ ११ ॥
देवो नारायणो नाम शक्तिः पूर्णगिरीति च ।
सम्प्रदायोनन्दवालस्तीर्थं चालकनन्दिका ॥ १२ ॥
आनन्दब्रह्मचारीति गिरिपर्वतसागराः ।
नामानि तोटकाचार्यो वेदोऽधर्वण सञ्ज्ञिकः ॥ १३ ॥
महावाक्यं च तत्रायमात्मा ब्रह्मेति कीर्त्येते ।
तुरीयो दक्षिणस्यां च शृङ्गेर्यां शारदामठः ॥ १४ ॥
मलहानिकरं लिङ्गं विभाण्डकसुपूजितम् ।
यत्रास्ते ऋष्यशृङ्गस्य महर्षेराश्रमो महान् ॥ १५ ॥
वराहो देवता तत्र रामक्षेत्रमुदाहृतम् ।
तीर्थं च तुङ्गभद्राख्यं शक्तिः श्रीशारदेति च ॥ १६ ॥
आचार्यस्तत्र चैतन्य ब्रह्मचारीति विश्रुतः ।
वार्तिकादि ब्रह्मविद्या कर्ता यो मुनिपूजितः ॥ १७ ॥
सुरेश्वराचार्य इति साक्षाद्ब्रह्मावतारकः ।
सरस्वतीपुरी चेति भारत्यारण्यतीर्थकौ ॥ १८ ॥
गिर्याश्रममुखानि स्युस्सर्वनामानि सर्वदा ।
सम्प्रदायो भूरिवालो यजुर्वेद उदाहृतः ॥ १९ ॥
अहं ब्रह्मास्मीति तत्र महावाक्यमुदीरितम् ।
चतुर्णां देवताशक्ति क्षेत्रनामान्यनुक्रमात् ॥ २० ॥
महावाक्यानि वेदांश्च सर्वमुक्तं व्यवस्थया ।
इति श्रीमत्परमहंसपरिव्राजकभूपतेः ॥ २१ ॥
अम्नायस्तोत्र पठनादिहामुत्र च सद्गतिम् ।
प्राप्त्यान्ते मोक्षमाप्नोति देहान्ते नाऽत्र संशयः ॥ २२ ॥
इत्याम्नायस्तोत्रम् ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.